________________
अलङ्कारसर्वस्वम् ।
इत्यादी सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषालंकारः। करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् ।
मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनाङ्ककारा निर्णीताः । 'संप्रत्यभेदप्राधान्येन कथ्यन्ते
अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् । अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयस्य विषय्यवष्टब्धत्वाद् विषयस्यापह्नवेऽपह्नतिः। अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रपकम् । साधर्म्य त्वनुगतमेव । "यदाहुः–'उपमैव तिरोभूतभेदा रूपकमुच्यते ।
यथा बाहुलतापाणिपद्मं चरणपल्लवः।' इति ।
१. एतत्स्मरणमुद्भटादिमते काव्यलिङ्गमिति कथ्यते यदुक्तम् उद्भटप्रणीते काव्यालङ्कारसंग्रहे
. 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥ इति । २. संप्रतीति । भेदाभेदतुल्यत्वाश्रयालंकारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्तावित्यर्थः। तत्र तावत्प्रथमं रूपकं लक्षयति-अभेदप्राधान्य इत्यादि ।
३. आरोपे अभेदस्य प्रधानतायां-भारोपविषयस्य च अनपन्हवे सति रुपकं भवतीत्यर्थः । उपमायां भेदाभेद्योरुभयोः प्राधान्यम् । व्यतिरेकालङ्कार भेदप्राधान्यम् उपमाव्यतिरेकयोावृत्त्यर्थं " अभेदप्राधान्ये " इत्युक्तम् । अपन्हुत्यलङ्कारव्यावृत्तये “ आरोप विषयानप. न्हवे' इत्युक्तम् । रूपयति-उपमानोपमेययोरभेदारोपेण एकतां नयतीति रूपकम्।
४. अन्यत्र मुखादी, अन्यस्य चन्द्रादेरावापः निक्षेप इत्यर्थः । ५. दण्डिमहोदयाः।