________________
शारदा-ग्रन्थ-माला।
'वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम्। यथा'अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ सादृश्यं विना तु स्मृति यमलंकारः । यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।। रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः)॥'
अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वेन स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । तत्रापि विभावाद्यागृरितत्वेन, स्वशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं इत्यादि । 'यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि
स्फीतासृक्नुतिपाटलीकृतपुरोभागः परान्पातयन् । तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल.
ज्वालालीभरभाखरे स्मररिपावस्तं गतं कौतुकम् ॥ १. सदृशस्य वस्तुनः दर्शनाद्यस्य कस्यचित्स्मृतेरलङ्कारत्वेऽतिप्रसङ्ग इत्याशङ्कयाहः-वस्त्वन्तरमिति । अनुभूयमानेन वस्तुना सदशस्यैव वस्तुनः स्मरणं स्मृतिरित्यर्थः ।
२. ननु यद्यन्यस्मादन्यस्य प्रतिपत्तिश्चेत्तदा कुतो नेदमनुमानमित्याशङ्कयाहः- अविनाभावेत्यादि।
विना (व्यापकं ऋते ) भावः (स्थितिः) न भवति इत्यविना. भावः । व्याप्तिरित्यर्थः । इयमेवानुमानस्य बीजभूता।
अविनाभावश्च व्याप्यव्यापकयोरेव सम्भवति नतु अनुभूयमान. स्मर्यमाणयोरपि । तयोर्नित्यसाहचर्याभावादत एवात्र तदभावान्नानुमानमितिभावः।
३. एवं स्थितेऽपि सतीत्यर्थः । विभावादिभिराक्षिप्तत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिर्विषय इति संबन्धः । तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा- 'अहो कोपेऽपि कान्तं मुखम्' इति ।