SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला | 'त्वदङ्गमार्दवद्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखा कदलीनां कठोरता ॥ ’ 6 कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता | प्रस्तुता प्रस्तुतयोर्व्य स्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते प्रस्तुताप्रस्तुतानां तु दीपकम् । श्रौपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोमध्यादेकत्र निर्दिष्टः समाना धर्मः प्रसङ्गेनान्यत्रेोपकाराद्दीपसादृश्येन दीपक ख्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावा गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः । श्रत्र प्राकरणिकत्वाप्राकरणिकत्व विवर्तित्वादुपमानोपमेयभावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वाक्तिः । वस्तुतस्तु वाक्यार्थत्वे श्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । क्रमेणेादाहरणम् – 8 (१) त्वच्छरीरसौकुमार्यदर्शिन: कस्येव चेतसि मालत्यादीनां काठिन्यं नावभासत इत्यर्थः । मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरतारुपैकगुण सम्बन्धः । (२) यथा एकं वस्तु प्रदर्शनार्थं, तमसि श्रानीतं दीपकं श्रन्यदपि वस्तु प्रकाशयति तथैवात्र शास्त्रेऽपि प्रकृतमर्थमुपपादयितुमुपात्तोधर्मः प्रसङ्गादप्रकृतमप्यर्थं दीपकन्यायेन दीपयति सुन्दरीकरोतीति दीपकालङ्कारः । (३) प्रथमं तुल्ययोगितालक्षणेोक्तमैौपम्यगम्यत्वमत्र लक्षणेऽनुषञ्जनीयमित्याशयः । (४) यत्रैव वस्तुः उपमानत्वं उपमेयत्वं वा वक्तमिष्टं तत्रैव प्रकरणादिबलात्तदाश्रयणीयमित्यर्थः ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy