SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४२ अलकारसर्वस्वम् । मानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां वैविध्ये पदार्थगतमलंकारद्वयमुच्यतेऔपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता' । इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा "सजातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकखराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः ॥' अत्र ऋतुवर्णनस्य प्रक्रान्तत्वादिनानां पद्मानां च प्रकृतत्वावृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा "योगपट्टो जटाजालं तारवीत्वमृगाजिनम् । उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ॥' उचितत्वं गुणः । अप्राकरणिकानां यथा'धावत्त्वदश्वपृतनापतितं मुखेऽस्य निर्निद्रनीलनलिनच्छदकोमलाङ्गया। भग्नस्य गूर्जरनृपस्य रजः कयापि ___ तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥" अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणे यथा (१) तुल्यानां प्राकरणिकाप्राकरणिकानां योगिता समानगुणक्रियासम्बन्धे एकधर्मान्वयित्वं यत्र सा तुल्ययोगिता । (२) अत्र ग्रीष्मर्तुवर्णने दिनानां पद्मानाञ्चप्रकृतानां वृद्धिरूपसमानधर्माभिसम्बन्ध उक्तः । कमलानि दिनवद्वृद्धिमीयुरित्यौपम्यं गम्यम् । (३) पत्र प्राकरणिकानामपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यरुपः समानोधर्मः । तारवीत्वक् वल्कलम् ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy