SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । - 'रेहह मिहिरेण णहं रसेण कव्वं सरेण जोव्वणम् । अमएण धुणीधवनो तुमए गरणाह भुवणमिणम् ॥' 'संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्व धेनुः ॥' 'किवणाण धणं णाआएँ फणमणी केसराइँ सीहाणम् । कुलवालिआएँ थणा कुत्तो घेप्पन्ति अमुश्राणम् ॥' एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगतत्वेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा साधूनामुपकर्तु लक्ष्मी धर्तुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥' अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते। वाक्यार्थगतत्वेन सामान्यस्य वाक्यदये पृथनिर्देशे प्रतिवस्तूपमा। पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेन सन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे दीपकतुल्ययोगिते। असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । प्राधः प्रकारः प्रतिवस्तूपमा । वस्तुतः शब्दस्य (१) “राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् । अमृतेन धुनीधवस्त्वया नरनाथ ? भुवनमिदम् ॥" अत्र राज्ञः प्रस्तुतत्वम् । मिहिरादीनामप्रस्तुतत्वम् । धुनीधवः% अत्र राजते इत्यस्य वाक्यारम्भवृत्तित्वात् सञ्चारपूतानीत्यत्र कृत्वा इत्यस्य मध्यवृत्तित्वात् कृपणानां धनमित्यादावपि गृह्यन्त इत्यस्यान्तवृत्तित्वादादिमध्यान्तदीपकाख्यास्त्रयोभेदाः। (२) “कृपणानां धनं नागानां फणामणयः केसराणि सिंहानाम् । कुलपालिकानाञ्च स्तनाः कुतो गृह्यन्तेऽमृतानाम् ॥
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy