SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा । साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथनिर्देशः। द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा 'चकार्य एव चतुराश्चन्द्रिकाचामकर्मणि । श्रावन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥' अत्र चतुरत्वं साधारण धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः । न केवलमियं साधम्र्येण यावद्वैधयेणापि। यथात्रैवोत्तरस्थाने 'विनावन्तीनं निपुणाः सुदृशो रतनमणि' इति पाठे। तस्थापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः । तस्यापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । श्राद्यो यथा'अब्धिलवित एव वानरभटः किं त्वस्य गम्भीरता. मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं . जानोते नितरामसो गुरुकुलक्लिष्टो मुरारिः कविः ॥" अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमोपम्यं विवक्षितम् । यनिबन्धनं च विवक्षितं तत्रान्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा 'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्ठन्ति हि तावदंशुमान यावदायात्युदयाद्रिमौलिताम् ॥' अत्र निहत्वादेः स्थानादिना वैधम्र्येण प्रतिबिम्बनम् । संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्वचित्संभवशेववस्तुसंबन्धःस्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसं. बन्धा यथा (१) निश्चित्य दर्शनं सादृश्याविष्करणं निदर्शना ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy