SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अलङ्कार सर्वस्वम् । 'चूडामणिपदे धत्ते या देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥ बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसं बन्धः । श्रसंभवद्वस्तुसंबन्धा यथा69 'श्रव्यात्स वा यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् । जटापिनद्धोरगराजरत्नमरीचिलीढेोभय कोटिरिन्दुः ॥ ' अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासशीं लीलामवगमयतीत्यदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् । एषापि पदार्थवाक्यार्थवृत्तिभेदाद् द्विविधा | पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधेाः ॥' "केचित्तु दृष्टान्तालंकारो ऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदशनैव युक्ता, न दृष्टान्तः । एवं च 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिना यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १ (१) अत्र स्मरचापलीला स्मरचापस्य धर्मः । श्रतोऽपरवस्तुत्वाचन्द्रे असम्भवन्ती सा तल्लीलासदृशलीलां बोधयति । अत्र लीलेत्येकस्यैव पदार्थस्य सम्बन्धोऽन्यत्र कथितः, अत इयं पदार्थवृत्तिः । पूर्वार्धगतवाक्यार्थस्योत्तरार्धगतवाक्यार्थस्य च (२) श्रंत्र सम्बन्धः कथितः । अथ चात्र वाक्यार्थयोरभेदसम्बन्धोऽसम्भवसादृश्यप्रतीतिं कारयति । (३) श्रीमम्मटादयः ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy