SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। - . दामोदरकराधातचूर्णिताशेषवक्षसा । दृष्टं चारपूरमल्लेन शतचन्द्रं नभस्तलम् ॥' . .. सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैवगृह्यते। यथोदाहृता न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्या त्पुरुषो वास्यादिति संशयेऽपि बोद्धव्यम् । एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः । यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेर्दै निर्निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्त वशादेतत्क्रियते । तत्र च रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः । तदुक्का यथा 'यथारुचि यथाथित्वं यथाव्युत्पत्ति भिद्यते। भाभासोऽप्यर्थ एकस्मिन्ननु संधानसाधिते ॥” इति यथा-'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः' इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एवश्रीकण्ठाख्यो जन पदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्त व्यस्तावा योजयितं शक्यन्ते । नन्वतन्मध्ये 'वज्रपक्षरमिति शरणागतैरसुरविवरमिति वादिकैः इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखालंकारविषयः । सत्यम् । अस्ति ताव “त्तपोवनम्” इत्यादी रूपकविविक्तोऽस्य विषयः । यदत्र वस्तुतस्तद्पतायाः संभवः। यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं तर्हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु । अतद्रूपस्य तद्रपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्य भावात् । तद्धेतुकत्वाचास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव। यद्येवम, अभेदे भेद १ अलङ्कारजन्या शोभा विच्छित्तिः ।..
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy