SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। - इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः॥" अत्र लावण्याकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्रतीतेः शाब्दं यथासंख्यम् । द्वितीयस्य यथा 'कजलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥" अत्र कजलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धे हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानु. गमानुसारेण त्ववयवानां क्रमसंबन्धावगतरित्यार्थं यथासंख्यम् । एकमन कस्मिन्ननेकमेकस्मिन्वा क्रमेण पर्यायः । क्रमप्रस्तावादिदमुच्यते । एकमाधेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालंकारोऽत्रोक्तः । तत्किमर्थमिदमुन्यते इत्याशयोक्तम्-क्रमेणेति । इह च क्रमोपादानादात्तत्र योगपद्यप्रतीतिः। तेनास्य ततो विविक्तविषयत्वम् । तथा एकस्मिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः । नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थं क्रमेणेति योज्यम् । अत एव 'गुणक्रियायोगपद्यं समुच्चयः' इति समुच्चयलक्षणे योगपद्यग्रहणम् । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् । विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्यां हि विनिमयो लक्षणत्वेन वक्ष्यते । तत्रानेकोऽसंहनरूपः संहतरूपश्चेति द्विविधः । तच द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणदाहरणानि 'नन्वाश्रयस्थितिरियं किल कालकूट ? . केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागणवस्य हृदये वृषलक्ष्मणोऽथ __कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' 'विसृष्टरागादधरानिवर्तितः स्तनाङ्गरागारुणिताच कन्दुकात् । कुशाङ्करादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयो तया करः ॥'
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy