________________
५०
अलङ्कारसर्वस्वम् । अत्र विनयाद्यसन्निधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशाभनत्वमुक्तम् । अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिनिमित्तीभवति । यथा सहोक्तौ सहार्थविवक्षा । एवं च
'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ॥' 'इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः। इयं च परस्परविनोक्तिभङ्गया चमत्कारातिशयकृत् । यथोदाहृते विषये । द्वितीया यथा
'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥' अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः। सैषा द्विधा विनोक्तिः। ___ अधुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाहविशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ।
इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम् । वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैविध्यम् । एतविभेदमपि श्लेषालंकारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः। अप्रस्तुतनिष्ठंतु समासोक्तिविषयः। तत्र च निमित्तं विशेषणसाम्यम् । विशेषस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्याद्धि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते। अवच्छेदकत्वं च व्यवहारसमारोपो न रूपसमारोपः । रूपसमारोपेत्ववच्छादितत्वेन प्रकृतस्य तद्परूपित्वादेव रूपकम् । ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावात्रिधा भवति । तत्र श्लिष्टतया यथा
(१) अत्र न शब्दो विनार्थकः । (२) स्तोकेन बह्वाभिधायिकोक्तिरित्यर्थः ।