________________
शारदा-ग्रन्थ-माला।
-
-
-
"उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्वलितं न लक्षितम् ॥
अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्नानायकव्यवहारप्रतिपत्तिः। अपरित्यक्तस्वरूपयोर्निशाशशिनो यकनायिकाख्यधर्मविशिष्टयोःप्रतीतेः साधारण्येन यथा
'तन्वी मनोरमा बाला लोलाक्षी पुष्यहासिनी। विकासमेति सुभग भवदर्शनमात्रतः ॥ अत्र तनुत्वादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचारतो शेयः । एवं च कार्यसमारोपेऽपि शेया । इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा । औपम्यगर्भत्वेन यथा
'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥' अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमाग त्वेन च ते समासे पश्चाहन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव 'परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाधकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिना लताप्रतीतिज्ञेया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविशेषणत्वं भवदपि न समासोक्तः प्रयोजकम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितेोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनारभावात्। तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा
(१) चन्द्रोदयो जातस्तदभिसार्यतामिति शुक्लाभिसारिकां प्रति इयं सख्या उक्तिः । तत्र अभिसारिकाया उद्दीपनार्थं चन्द्रनिशयोदम्पतिव्यवहारप्रतिपादनं समासोक्तिः । अत्र रागमुखशब्दानां श्लेषेण, चन्द्रनिशयोः पुल्लिङ्गस्त्रीलिङ्गत्वेन च चन्द्रनिशयोर्दम्पतिव्यवहारः सक्षेपेणोक्तः।