________________
शारदा-ग्रन्थ-माला।
-
च्छब्दालंकारत्वमिति चेत्. न । श्राश्रयाश्रयिभावेनालंकारत्वस्य लोकवद्वयवस्थानात् । एवं च 'सकलकलं पुरमेतजातं संप्रति सुधांशुबिम्बमिव' इत्यादी न गुणक्रियासाम्यवच्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः। श्लेषगर्भ तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव विश्रान्ति. रिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छलेषस्य बाधिका समासोक्तिः । इह तु
'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद्विवस्वान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥'
अत्र श्लोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्पतितत्वं यश्च वडवाग्निमध्यप्रवेशस्ते हे अपि त्रयीमयत्वसंबन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया अभेदेनाध्यवसिते । सोऽयमतक्रियायोगः । तद्धेतुका च मन्ये अत एव विशुद्ध्यै इत्युत्प्रेक्षा (क्षया), अत्रात एवेति परामृष्टो विरोधालंकारालंकृतोऽर्थो हेतुत्वेनात्प्रेक्ष्यते। विशुद्ध्यै इति च फलत्वेन । ततश्च हेतुफलयाईयोरप्यत्रोत्प्रेक्षा। विरोधालंकारस्य च विरोधाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम् । उत्तरकालं तु विरोधसमाधिः । श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि बाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेष उत शब्दशक्तिमूलध्वनिरिति विचार्यते-तत्र न तावच्छलेषः । अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः । उपक्षेप्यस्यार्थस्यासंबन्धाभावात्तेन सहापमानोपमेयभावस्याविवक्षणात् । न चान्या गतिरस्ति तदत्र किं कर्तव्यम् । उच्यते-श्लेषस्योक्तनयेनात्रप्रवृत्ते नेरेवायं विषय इति निश्चयः । तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत्कोऽयमभिनिवेशस्तत्रोपमा ध्वनौ । वस्तुध्वनिरपि संबन्धान्तरेण तत्र समीचीनः स्यात् । अत एव