________________
श्रलङ्कार सर्वस्वम् ।
'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवा द्विधा ॥
इति न्यायभर निबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः । एवं प्रकृतेऽपि पत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः
यथा
'सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्रं रसात्यक्त्वा धूसर कान्तिवल्कलधरो राजास्तशैलं ययैौ । तत्कान्ताप्यथ सान्त्वयन्त्य लिकुलध्वानैः समुल्लासिभिः क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥ इति हरिश्चन्द्रचरितम् अत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपेयुषि चन्द्रे रोहिताश्वाख्यतनयसहितया श्रौशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राशो विश्वामित्रसंपादितोपद्रववशात्प्रातः स्वराष्ट्रं त्यक्त्वा वाराणसीं प्रति गमनं सूचितम् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते । सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । वल्कलसुताभ्यां त्वौपम्यं सुचनीयार्थनैरपेचयेण सादृश्यसंभवमात्रेणैव संभवनीयम् । अतश्च प्रकृतेन सुचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च
'श्रीकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे
कण्ठे लग्नः सुकण्ठः प्रभवति कुचयेोर्दत्तगाढाङ्गसङ्गः । बद्धासक्तिर्नितम्बे पतति चरणयेार्यः स तादृक्प्रियेा मे
बाले ? लज्जा निरस्ता नहि नहि सरले ? चालकः किं त्रपाकृत् ॥
इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् । अपहतेरत्र विद्यमानत्वात् । वस्तुतोऽपह्नवस्य सादृश्यार्थमत्रप्रवृत्तेन यमहुत्यलंकार इति चेत्, न । उभयथाप्यपहुतिसंभवात् । सादृश्यपर्यवसायिना वापहवेनापह्नव पर्यवसायिना वा सादृश्येन भूतार्थापहुंचस्योभयत्र विद्यमानत्वात् ।
'सादृश्यव्यक्तये यत्रापह्नवाऽसावपद्धतिः । अपहवाय सादृश्यं यत्राप्येषाप्यपहृतिः ॥'