________________
अलारसर्वस्वम् ।
-
उन्टादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । - पक्रोक्तिजीवितकारः 'पुनर्वैदग्ध्यभङ्गीभणितिखभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे । अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव 'कविसंरम्भगोचरः । 'उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैतन्मतम् । अन्यैः पुनरेतदपि प्रत्युक्तमित्याह-उद्भटादिभिरित्यादिना।
(१) वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तम् । यदाह'वक्रोक्तिरेव वैदग्ध्यभङ्गोभणितिरुच्यते' इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह-'विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते' इति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिवर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवास्यात्र प्राधान्यं विवक्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयम् ।
(२) कवीति तत्रैव कविः । संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् ।
(३) ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्कयाह-उपचारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरम्तर्भूत इति तात्पर्यार्थः । यदाह-'यत्र दूरान्तरोन्यस्मात्सामान्यमुपचर्यते। लेशेनापि भवेत्कर्तुं किंचिदुद्रिक्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधानासौ वक्रता काचिदिम्यते ॥ इति । एतामेवोदाजहार च* 'गअणं च मत्तमेहं धारालुलिअज्जुणाई श्रवणाई ।
मिरहंकारमिअङ्को हरन्ति नीलाओं अणिसाओ ॥' . * गगनच मत्तमेधं धारालुलितार्जुनानि च वचनानि ।
निरहहारमृगाङ्कन हरन्ति नीलाच निशाः ॥ १॥