________________
शारदा-ग्रन्थ-माला।
वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्धनिभेदोऽलंकारतयैवोक्तः केवलं 'गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता।
'कृच्छुणारुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता। मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाझं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥' अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः. सन्वाच्योपस्कारकः ।। तत्संवलितत्वेन वाच्यस्य सचमत्कारं प्रतिपत्तेः । प्रेयोलंकारो यथा'तिष्ठत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः। तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी.. सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥'
अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव । ऊर्जख्यलंकारो यथा'दुग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनि:संधौ परिरम्भणे रतिरथो दोर्मण्डलीदृश्यताम् । प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सजा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ॥
अत्र सीतां प्रति रावणस्य रतिरनौचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यम् । एतदेवोपसंहरतितदित्थमित्यादिना । त्रिविधमिति । पर्यायोक्तादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः। तदेवं चिरंतनैः प्रतीयमानस्यालंकारा. न्तर्भाव एव तावदुक्तः । तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः। वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिधतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि । . (१) यदाह-'विशिष्टा पदरचना रीतिः' इति । काव्यात्मकत्वेनेति । यदाह-रीतिरात्मा काव्यस्य' इति । तदेवं विशिष्टपदरचनात्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीतेः 'तदतिशयहेतवस्त्वलंकाराः' इत्याधुक्त्यान्तर्भावितध्वनयोऽलंकारा उपस्कारका इत्ये.