________________
अलङ्कारसर्वस्वम् ।
'रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः। तदित त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव ।
'भीमभूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् । घ्राणस्याटिकमल्लिकापरिचिते भालाग्रशालाजिरे दीपा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ॥" अत्र नयनादीनां मणिप्रभृतीनां चापमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः। दीपकं यथा* पाउप्रबन्धं पढिउं बन्धेउं तह श्र कुजकुसुमाई।
पोढमहिलं अ रमिउं विरलचित्र के वि जाणेन्ति ॥" अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धात् । अपह्नतिर्यथा-'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
___ कलङ्को नैवाय विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥' अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायाव. गम्यत एव । तुल्ययोगिता यथा'द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्धसमर्पितमाननाद्वयघटयन्त कथंचन योषितः ॥'
अत्र भुजादीनां सादृश्यावगमादुपमावाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणम् । उपमादीत्यादिशब्दादुपमेयोपमादीनाम् । - (१) अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः। श्रादिशब्दाच तदाभासादयः । तत्र रसवदलंकारो यथा
*प्राकृतबन्धं पठितु बद्धं तथा च कुब्जकुसुमानि । प्रौढमहिलाञ्च रन्तुं विरला एव केऽपि जानन्ति ॥ छाया ॥