________________
श्रीराजानक-रुय्यकः
कोऽयं महापुरुषः, कतमोऽस्य देशः, कस्य वा कुलमयमलञ्चकार, कदावायमिममिलामण्डलं मण्डयामास, कीदृशञ्चास्यालङ्कारिकेषु गौरवं, अन्यापि काचिदस्ति न वा कृतिप्रवृत्तिरित्यादिषु विषयेषु अलङ्कारसर्वस्वमनुदिनमधीयानानां सुकुमारकुमारमतीनां साहित्य. तत्वाधिजिगमिषूणामन्तेवासिनां स्वान्तं नितान्तमहरहः कौतूहल. मवलम्बत एवेति नाविदितं विदितवेदितव्यानां काव्यपरिषदमलकर्वतां प्रत्नतत्वान्वेषणविचक्षणानां सहृदयहृदयाणां तत्रभवताम्भवतामित्यविकलं यथामतिं लब्धानुसन्धानेन मया किञ्चिनिरूप्यते राजानकरुय्यकविषये।
अयं महामहिमशाली साहित्य-संसृतिदिग्विदिग्विदितकीर्तिमाली, श्रालङ्कारिकप्रसवित्र्याः साहित्यवसुमत्याः गौरवभूत आलङ्कारिकचूडामणी राजानक-रुय्यको पञ्चापप्रदेशान्तर्गत विद्यापीठ-काश्मीरदेशवास्तव्य आसीत् ।
अयञ्च उद्भटविवेक प्रणेतू राजानक-तिलकस्यान्वयमलमकरोत् ।
यद्यप्यस्य समयनिर्णयादिव्यतिकरे प्रामाणिकप्रमाणपन्यासादेनुप्रलम्भासिद्धान्ततया किमपि निर्धारयितं न शक्यते तथापि लब्धस्वल्पवाचायुक्तिभिरेकादशशतकावसानोऽस्य प्रादुर्भावसमय इत्यनुमन्ये ।
यतः किल सप्तविंशत्युत्तरैकादशशतमित (११२७) खिस्तसंवत्सरादारभ्यैकोनपञ्चाशदुत्तरैकादशशतमित (११४१) ख्रिस्तसंवसरपर्यन्तं काश्मीरदेशशासकस्य राजन्यचक्रचूडामणेः सुस्सलसूनोर्जयसिंहमहीपालस्य समये समुत्पन्नो मङ्खक-महाकविः निजनिर्मितश्रीकण्ठचरितस्य पञ्चविंशे सगै श्रीरुय्यकमात्मनो गुरुत्वेनोपनिबबन्ध । तेच श्लोका यथाः
"व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते। . पाकर्षदिव वाग्देव्या धौतक्षौमपटाञ्चलम् ॥ १ ॥