SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अर्पयन्कमपि स्पन्दं धाम्नः सारस्वतस्य भूः । य एव सर्वशास्त्राणां साकारमिव जीवितम् ॥ २ ॥ विवृतीर्यो लिखत्यात्त लेखन्येकाकुलीतलः । प्रन्थेभ्योऽर्थस्य विश्रान्त्यै सूत्रिकामर्पयन्निव ॥ ३ ॥ यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ ४॥ तं श्रीरुय्यकमालोक्य सप्रियं गुरुमग्रहीत् । • सौहार्दप्रश्रयरसस्रोतः सम्भेदमजनम् ॥ ५ ॥ तत्रैष-पुनः "न्युट्यद्भिराननपथावसथोक्तिदेवी हस्ताग्रपुस्तकमुखादिव बन्धसूत्रैः ॥ दन्तांशुभिः प्रसृमरैः पिहिताधरौष्टः श्रीरुय्यकस्तमथ सस्वगुरुर्वभाषे ॥१॥ यच्छीमङ्खक ? मुख्यतां गतवता व्युत्पत्तिविच्छित्तिभिः। श्रीश्रीकण्ठचरित्रमित्यमिधया काव्यं व्यधायि त्वया एतस्मिन् सदसि प्रसिद्धविविधोपासीनविद्वद्वरे । तत्सन्दर्शय यस्य रोहतरां साफल्यतः कल्पना ॥ १॥" जयसिंह महीपालस्य राज्यशासनकालः, खिस्तोय-११२७ प्रारभ्य ११४४ पर्यन्तं यावदासीत्। उत्पत्तिकालश्च ततो विंशतिः पञ्चविंशतिर्षा वर्षाणि प्रागवश्यम्भाव्य एव । महकमहाकवेरपि समयः, अस्य समयतः परमनुमानतः पश्च सप्त वा शरदायाति । यतः स तस्यैव समये विविध-विद्या-पारङ्गमोभूत्वा महाकविरिति पदवीं प्रतिपेदे। इतिरीत्या मङ्खकमहाकविरपि खिस्तीयद्वादशशतकारम्भीयपशसप्त वा संवत्सरे भारतभूमावाविबभूवेति वक्तुं सुशकमेव । प्रकृतग्रन्थनायको राजानकरुय्यकस्तु अस्य समयान्यूनतोऽपि पञ्चविंशतिर्वा वर्षाणि प्रागासीदेव। यतोऽयं महकमहाकवेर्गुरुः । महाकवि-गुरौ च सामान्यतः पञ्चविंशतिवर्षमितकालप्राक्तनत्वमवश्यमेवापेक्षते।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy