SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ( ३ ) श्रीमन्तः पिटर पिटर्सनमहोदया अपि पञ्चत्रिंशदुसरेकादशशतमितख्रिस्तसंवत्सरमारभ्य पञ्चचत्वारिंशदुत्तरैकादशशतमितख्रिस्तसंवत्सरं यावत् श्रीकण्ठचरितनिर्माणसमयः प्रतिपादितवन्तः । एवं सर्वेषाम्प्रमाणानां सम्यगालोचनया राजानक- रुय्यकस्य श्रशीतिः पञ्चाशीतिर्वोत्तरदशशतमितवर्षाणि (१०८०-८५) प्रादुर्भावसमयः समागच्छति । प्रन्थकर्तृविषयेऽपि बहुमतमवलोक्यते । यथा: कुत्रचित्प्राचीन हस्तलिखित पुस्तके: "गुर्व लङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते " । काव्यमाला प्रकाशित पुस्तके: "निजालङ्कारसूत्राणां वृत्त्या तात्पर्य मुख्यते " मन्थान्ते च "सम्पूर्णमिदमलङ्कारसर्वस्वम् । कृतिस्तत्रभवद्राजानकरुय्य समुद्रबन्धव्याख्यासमा थेतुः - इति मनुका वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कार सर्वस्वम् ॥” इत्यादि । अत्र प्रथमपद्यार्धे “गुरु” शब्द पाठदर्शनात्प्रतीयते यद्वृत्तिकारस्य गुरुः सूत्रकार इति । कस्य " । द्वितीय पद्यार्धे "निज” शब्द पाठदर्शनादुप्रन्थान्ते च “सम्पूर्ण मि दमलङ्कार सर्वस्वम् |" इति सामान्यतः सूत्रवृत्याः समुदायस्यैव " अलङ्कारसर्वस्वम्' इति प्रतिपादनात्तस्यैव चान्ते " कृतिस्तत्रभवद्राजा - नकरुय्यकेस्य" इति पाठावलोकनाच्च सूत्रवृत्योरेक एव प्रणेता, स च वृत्तिकारः । तथा च उपक्रमोपसंहारपर्यालोचनया सूत्रकारो रुय्यकः, वृत्तिकारो मखुक इत्यवगम्यते । यतः ग्रन्थादौ सूत्रेोपन्यासात्प्रागुप दुधातारम्भ एव वृत्तिकारः "गुर्वलकारसूत्राणां वृत्या तात्पर्यमुच्यते ।” इति प्रतिजज्ञे । प्रन्यान्ते च केवलं वृत्तेरेवावसाने
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy