SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ( * ) " इति मनुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलंकार सर्वस्वम् ॥” इत्यार्यापि दृश्यते । अत्र “ वितेने” इति क्रियापददर्शनेन स्पष्टमेव प्रतीयते यत्सूत्रग्रन्थस्याभिधेयं “ श्रलङ्कार - सर्वस्वम्" । तच्च गुरुप्रणीतम् । मङ्खुकश्च वृत्या तस्य तात्पर्य विवत्र इति । यच्च सुगृहीतनामधेयाः विपश्चिद्वराः महामहोपाध्यायाः श्रीमन्तो गणपतिशास्त्रमहाभागा अनन्तशयन संस्कृत-ग्रन्थावलि - प्रकाशिताल'कार सर्वस्वस्यापो दुघाते ऽनयैवार्यया "मबुके । ऽलङ्कार सर्वस्वस्य” कर्ता प्रख्यायत इति प्रकटितवन्तस्तत्तु नमे समीचीनतया प्रतिभाति । श्रय श्रालङ्कारिकसमाजेषु प्रधानभूमिरासीदित्यस्यैव रचितलहृदयलीलासमाप्तौ समाप्तिपाठावलोकनतः स्फुटीभवति: "समाप्तेयं सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजानकतिलकात्मजश्रीमदलङ्कारिकसमाजाग्रगण्य श्रीराजानक- रुय्यकस्य राजानक रुचकापरनाम्नोऽलङ्कार सर्वस्वकृतः । श्रलङ्कारसर्वस्वस्य कर्ता राजानक रुचकः, न तु रुय्यक इत्यपि केचन वदन्ति परमेतदवलोकनाय्यक- रुचकयोर्मध्ये व्यक्ति भेदा न दृश्यते किन्तु एकस्यैव नामद्वयमित्यनुमीयते । एतत्प्रणीतग्रन्थास्त्विमेः ------ (१) श्रलङ्कारसर्वस्वम्, (२) श्रलङ्कारानुसारिणी नाम्नी जल्हण - कविप्रणीत सेामपालविलासकाव्यस्य टीका, (३) काव्यप्रकाशसङ्केतः, (४) श्रीकण्ठस्तवः, (५) सहृदयलीला, (६) साहित्यमीमांसा, (७) हर्षचरितवार्तिकम्, इति सप्त । • ' पतत्पुस्तकसंशोधनावसरे आदर्शभूत प्राचीनपुस्तकानुपलम्भान्मादृशजनसुलभेन मतिदेोषेण च जनिता अशुद्धयः सुधियः संशोध्यानुगृह्णन्त्विति प्रार्थयति विदुषामनुचरो ज्ये० शु० दशहरा १६८३ शारदाभवनम् काशी । गौरीनाथ पाठकः
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy