SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अलङ्कार सर्वस्वम् । स्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषम् । मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥' श्रत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः । પૃષ્ઠ 'मन्दमग्निमधुरर्य मोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिषेविरे दोषमेोषधिपतेरसंनिधैा ॥ अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । 'गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् । पूर्वामत्यजतः स्थिति शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥' श्रत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । 'प्रसर्पन्तात्पर्यैरपि सदनुमानकर सिकै रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत् । पूर्वव्यापारो गुरुवर बुधैरित्यवसिता न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ॥' अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किंतु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्व व्यापारविषयतेोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इति प्रसर्पन्तात्पर्येरित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् । 'पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युजिघासारसात् । चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहः क्रीडाद्दृढालिङ्गने ॥ श्रश्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्वदुभेद इत्युक्तं प्राकू । तत्र
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy