________________
शारदा-ग्रन्थ-माला। .
५५
%3
-
शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषण. साम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम् । इह तु
'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥" इत्यत्रास्ति तावद्रविशशिनो यकत्वप्रतीतिः। न चात्र विशेषणसाम्यमिति सा कुतस्त्या। प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयाः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथमत्र व्यवस्था। उच्यते-एकदेशविव. तिन्युपमा यदि प्रतिपदं नोक्ता तदा सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र नेोपमानत्वेन नायकः स्वरूपेण प्रतीयते तथापि रविशशिनारेव नायकव्यवहारप्रतीतिः। तयारत्र नायकत्वात् । तदत्रानखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम् । इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः। यथा 'दद्ध्ना जुहोति' इत्यादौ दनि संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव । इह तु पुनः
'नेरिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' इत्यत्र सरः श्रियां नायिकात्वप्रतीतिर्न समासोक्या। विशेषणसाम्याभावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधमत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या। गत्यन्तरासंभवात् । यैस्तु नोक्ता तेषामुपमाख्ययैव । यत्र तु 'केशपाशालिवृन्देन' इत्यादी समासोक्तायामुपमायां समासान्तरेण विशेषण - साम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।
सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन क्वचित्समर्थकगतत्वेन भवति । क्रमेण यथा