SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनखिनः । अनाक्रम्य जगत्सवं नो संध्यां भजते रविः ॥' अत्रोपगृढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदो यकव्यवहारप्रतीतो समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् । असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते। प्राकृष्टिवेगविगलद्भुजगेन्द्रभोगनिर्मोकपट्टपरिवेषतयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ॥' अत्र निर्माकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तश्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसी. यते। तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्यारेकः कालः। एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यव. हार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या । विशेषणसाभिप्रायत्वं परिकरः। विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः। अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थक नाम।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy