________________
१००
अलङ्कार सर्वस्वम् ।
चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् । देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ॥ हा राशितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य । यदि नेच्छसि संत्यक्तः संप्रत्येवैव हाराहिः ॥ वसुरहितेन क्रीडा भवता सह कीदृशो न जिह्वेषि । किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः || आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य । दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम् ॥ इति कृतपशुपति पेलवपाशकलीलाप्रयुक्तवक्रोक्तः । हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥ वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीद्दालंकारविशेषे
संशितः । सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः ।
इह वस्तुस्वभाववर्णनमात्रं नालंकारः । तत्त्वे सति सर्व काव्यमलंकारि स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थं सूक्ष्म ग्रहणम् । सूक्ष्मः कवयितृमात्रस्य गम्यः । श्रत एव तन्निर्मित इव यो वस्तुस्वभावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं स्वभावोक्तिरलंकारः । उक्तिवचनप्रस्तावादिहास्या लक्षणम् | भाविकरसवदलंकाराभ्यामस्य भेदो भाविक प्रसङ्गेन निर्णेष्यते । यथा
'हुङ्कारो नखकोटिचञ्चुपुट कव्याघट्टनोट्टङ्कित
स्तन्व्याः कुन्तल कौतुक व्यतिकरे सीत्कारसीमन्तितः । - पृष्ठश्लिष्यदवामनस्तनभरोत्सेधाङ्कपालीसुधा
सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥' अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् ।
चन्द्रग्रहणेन चन्द्रस्यादानेन चन्द्रोपरागेण च । नास्मि रमे नाहं रतिं करोमि ।
हाहा । हेत्यव्ययम् । राहौ स्वर्भानौ । हाररूपे अहौ च । वसुरहितेन - धनरहितेन, अष्टवसुरहितेन च । अङ्कश्चिन्हम् । उत्सङ्गश्च ।
श्रत्र मेदुरोदरेण- हाराहावित्यादौ सभङ्गत्वमन्यत्राभङ्गत्वम् ।