________________
१८ .
अलङ्कारसर्वस्वम् ।
'आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे .
खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः
स प्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥ • यथा वा
'सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा
राकेन्दोः किरणा विषद्रवमुचा वर्षासु वा वायवः । न त्वेताः सरला सितासितरुचः साचीकृताः सालसाः
साकूताः समदाः कुरङ्गकदृशां मानानुविद्धा दशः ॥' खरव्यञ्जनसमुदायपौनरुत्यं यमकम् ॥
अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं क्वचिदेकस्यानर्थकत्वमपर. स्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा
'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
.. तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥' इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् ।
शब्दार्थपोनरुक्त्यं प्ररूढं दोषः ॥ "मूर्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा
धौतेशाविप्रसादोपनतजयजगजातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदोद्धराणां
दोष्णां चैषां किमेतत्कलमिह नगरीरक्षणे यत्प्रयासः ॥" "अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥" एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि । (१) अत्रैव विश्वनाथः- "सत्यर्थे पृथगायाः स्वरव्यञ्जनसंहतेः
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते"