SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ • ' शारदा-ग्रन्थ-माला। अवस्थेयं स्थाणारपि भवति सर्वामरगुरो विधौ वक्र मूनि प्रभवति वयं के पुनरमी ।'' अत्र विधौ वक्र इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्माकरणिकार्थापतनम् । तुल्यबल विरोधो विकल्पः । विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यवलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव योगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाश्चात्र चारुत्वम्। यथा-'नमयन्तु शिरांसि धनूंषि वा कर्णपूरी क्रियन्तामाक्षा मौव्यों वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणविशिष्टत्वम् । संधिविग्रही चात्र क्रमेण तुल्ये प्रमाणे। प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति नास्ति तयायुगपत्प्रवृत्तिः । प्राप्नुवतश्चात्र युगपत्प्रवृत्ति प्रकारान्तरस्यात्रानाशयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । ___ नमनकृतं च तयाः सादृश्यमित्यलंकारता । एवं कर्णपूरीकियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्च क्वचिच्छ्लेषावलम्बनाप्ययं दृश्यते । यथा 'भक्तिप्रहविलोकनप्रणयिनी मीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । - लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशस्तन्वती - युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥" अत्र नेत्रे तनुर्वेति विकल्पः। उत्तमत्वाञ्च तुल्यप्रमाणं विशिष्टत्वम् । न चात्र समुच्चये वाशब्दः। संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः । कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव न कार्यम् । कृतं च सत्स्पर्धिभावं गमयति । स्पर्धिभावाश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्ययत्वात् । स चात्र श्लेषाश्लिष्टः । लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः । पूर्वैरकृतविवेकाऽत्र दर्शित इत्यवगन्तव्यम् ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy