________________
शारदा-ग्रन्थ-माला।
अत्र धर्मविषये मार्गशब्दः श्लिष्टः । उपमोपक्रमोत्प्रेक्षा यथा
कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे __रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरः च कालागुरु. स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥"
अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विप' इत्युपमानाक्विविधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभवोत्थाने उत्प्रेक्षायां पर्यवसानम् । यथा वा विरहवर्णने केयूरायितमङ्गदैः' इत्या. दो । एषाच समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषूदाहृता (दृश्यते । ) इह तु प्रन्थविस्तरभयान्न प्रपञ्चिता। सापह्नवोत्प्रेक्षा यथा
'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा॥ अवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगादपह्नवो गम्यते । एवं छमादिशब्दप्रयोगेऽपि शेयम् । 'अपर इव पाकशासनः' इत्यादावपर. शब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावुत्प्रेक्षवेयम् । इवशब्दाप्रयोगे तु सिद्धत्वादध्यवसायस्यातिशयोक्तिः। अपरशब्दस्याप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धोऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा के प्रति स हेतुः स्यात् । यथा-'अपश्यन्ताविवान्योन्यम्' इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्त. स्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च तत्र क्षामतागमनं निमित्तम् । एवं 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्र धर्मो निमित्तभूतः क्वचिनिर्दिश्यते । यथा-'स वः पायादिन्दुः' इत्यादौ । अत्र कुटिलत्वादि निर्दिष्टमेव । 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादिगम्यमानम् । यत्र धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानु. पादानाभ्यां वैविध्यम् । उपादाने यथा- ...