SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अलङ्कार सर्वस्वम् । अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा'पातालमेतन्नयनोत्सवेन विलोक्य शून्यं शशलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥ अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वम् । एतानि भावाभिमानेनोदाहरणानि । अभावाभिमानेन यथा 'कपोलफलकावस्याः कष्टुं भूत्वा तथाविधा 1 अपश्यन्ताविवान्यान्यमीदृक्षां क्षामतां गतौ ॥ अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावप्यूह्यम् । गुणस्य निमित्तत्वं यथा - 'नव बिसलताकोटि कुटिलः' इत्यादावुदाहृतस्य कुटिलत्वस्य । क्रियाया यथा - 'ईद्रक्षां क्षामतां गती' इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे | अनुपादाने लिम्पतीव तमोऽङ्गानि इत्याद्युदाहरणम् । हेतूत्प्रेक्षा यथा - 'विश्लेषदुःखादिव बद्धमानम्' इत्यादी । स्वरूपोत्प्रेक्षा यथा कुबेरजुष्टां दिशमुष्णरश्मी गन्तुं प्रवृत्ते समयं विलङ्घय । दिक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवात्ससर्ज ॥” फलोत्प्रेक्षा यथा 'चालस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥ एवं वाच्येोत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा* महिला सहस्सभरिए तुह हिश्रए सुहा सा श्रमान्ती । अणुदिणमणरणअम्मा अङ्गं तत्रम्पितपुएइ ॥ इति । “श्रमाअन्ती” इत्यत्रावर्तमानेवेति तनूकरण हेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । श्लिष्टशब्दहेतुर्यथा 'अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीता जगतीतले यः । अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥१ ( १ ) श्रत्र कपोलफलकयास्तपोवशात् क्षामत्वमापन्नयोः परस्परादर्शनमभावरूपसाध्यत्वात् क्रियारूपक्षामतायां कारणतयेोत्प्रेक्षितम् । तेनेयमतत्क्रियायोगादभावाभिमानेनेोत्प्रेक्षा । ईक्षां = ईदृशीम् । (१२) “महिला सहस्रभरिते तव हृदये सुभग सा श्रमान्ती । अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ॥”
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy