SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । 'दृशा दग्धं मनसिजं जीवयन्ति दशैव याः। __. विरूपाक्षस्य जयिनीस्ताः स्तुवे चारुलोचनाः ॥' ' अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीविषयत्वं क्रियते । तश्च दाहविषयत्वस्य प्रतिपक्षभूतम् । तेन व्याघाताख्योऽयमलंकारः । सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह प्रकरणलक्षणम् । प्रकारान्तरेणाप्ययं भवतीत्याहसौकण कार्यविरुहक्रिया च व्याघात इत्येव । किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्धनिष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकायव्याहति. निबन्धनत्वाव्याघातः । कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा । तस्य कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद्विषमाझेदः। तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम् । इह तु कार्यमकार्यमेव न भवति । तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्टकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु 'यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणोय इति भवद्भुजपअरमेव रक्षास्थानम्' इत्यादि । अत्र राज्यवर्धनस्य श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युताप्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः । एवं विरोधमूलानलंकारान्निीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्रपूर्वस्य पूर्वस्पोत्तरोत्तरहेतुत्वे कारणमाला। यदा पूर्व पूर्व क्रमेणेत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽयमलंकारः । यथा 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ ..
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy