SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। कार्यकारणक्रम एवात्र चारुत्वहेतुः । यथापूर्व परस्य विशेषणनया स्थापनापोहने एकावली। यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा'पुराणि यम्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः। रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥' अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा. 'न तजलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट् गदम् । न षट्पदोऽसौ न जुगुज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निवेध्यत्वेन स्थितम् । एवं पङ्कजानां निलीनषट्पद वं ज्ञेयम् । पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् । . उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कपहेतुत्वम् । यथा 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते . देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥' अत्र कोदण्डादिभिः क्रमेण शरीरादीनामुत्कर्षोऽभिहितः। समा. सादनलक्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तराभिमतत्वेन कृतम् । उत्तरोत्तरमुत्कर्षणमुदारः।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy