SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला । इहापि विरोधप्रस्ताव एव निर्दशकारणम् । परस्परजननस्य विरुद्धत्वात् । क्रियाद्वारकं यत्र परस्परोत्पादकत्वं, न स्वरूपनिबन्धनं स्वरूपस्य तथात्वोक्तिविरोधात, तत्रान्योन्याख्योऽलंकारः ।। यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारण भूषणभूष्यभावः ।' अत्र शोभाख्यक्रियामुखकं परस्परजननम् । अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तकरणं विशेषः। इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेयस्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधा वर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किञ्चिदारभमाणस्यासंभाव्यवस्त्वन्तरकरणं, स तृतीयो विशेषः । श्रानुरूप्यपरिहाररूपविरोधप्रस्तावादिहोक्तिः । क्रमेण यथा "दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥" 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यड़े सा दिशि दिशि च सा तद्वियोगाकुलस्य।... हंहो चेतःप्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥" निमेषमपि यद्येकं क्षीणदोष करिष्यसि । पदं चित्ते तदा शंभो ? किं न संपादयिष्यसि ॥' अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थितिरन्यत्र भावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात्; एकस्या एव योषितः प्रासादादी युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादनं क्रमेण शेयम् । यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः । यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केनचित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते, स निष्पा दितवस्तुव्याहतिहेतुत्वा द्वयाघातः। यथा
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy