SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । ::श्रत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः । भावशबलता यथा(१) 'क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥" अत्र वितर्कीत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबखता । तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः। . अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थापितमलंकारद्वयमुच्यते। तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः । संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्थानम् । तत्रोत्कटत्वेन स्थिती तिलतण्डुलन्यायः, इतरत्र तु क्षीरनीरसादृश्यम् । क्रमेणैतदुच्यते एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद् युगपद् संघटना स्यात्, तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते--तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते तद्वत्प्रकृतालंकाराणामपि संयोजने चारुत्वान्तरमुपलभ्यते । तेनालंकारान्तरप्रा. दुर्भावान पृथक्पर्यवसानमिति निर्णयः। अलंकारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटत्वावगम इति द्वैधम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः। अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामेव गमयतः। तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंकारगतत्वेन च । तत्र शब्दालंकारसंसृष्टिर्यथा(१) अत्र क्वाकार्यमित्यादी वितर्कः, भूयोऽपीत्यौत्सुक्य, दोषाणामिति मतिः, कोपोऽपीति स्मृतिः, किं वक्ष्यन्तीति शङ्का, स्वप्ने - पीति दैन्यम् । चेतः स्वास्थ्यमिति धृतिः, कः खल्विति चिन्ता इति स्फुटं भावानां पूर्वपूर्वोपमर्दैन प्रतीयमानाऽवस्थितिरूपा शबलता। . ....... . . . . .
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy