SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। १०५ अत्र चिन्ताख्यो व्यभिचारिभावः। एष एव च भावालंकारः । भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते। ऊर्जस्वी यथा'दूराकर्षणमोहमन्त्र इव मे तन्नानि याते श्रुति चेतः कालकलामपि प्रकुरुते नावस्थितियां विना। एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः संपद्येत कदा तदाप्तिसुखमित्येतन वेमि स्फुटम् ॥" अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गारः । औत्सुक्यं च व्यभिचारिभावः । अनौचित्येन प्रवृत्तौ समाहितं यथा'अक्षणाः स्फुटाश्रुकलुषोऽरुणिमा निलीनः शान्तं च सार्धमधरस्फुरणं भ्रुकुट्या । भावान्तरस्य तव चण्डि ? गतोऽपि रोषो नोगाढवासनतया प्रसरं ददाति ॥' अत्र कोपस्य प्रशमः। एवमन्यत्राप्युदाहार्यम् । भावोदयो भावसंधिर्भावशबलताश्चैते पृथगलंकाराः। भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयाविरुद्धयोः स्पर्धित्वेनोपनिबन्धः, शबलता च बहूनां पूर्वपूर्वोपमर्दैन निबन्धः। एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः। एतत्प्रतिपादनं चौद्भटादिभिरेषां पृथगलंकारत्वेन निर्दिष्टत्वात् । अथ च संसृष्टिसंकरवैलक्षण्येनैते च सर्वालंकाराः पृथक्केवलत्वेन, अलंकारा इति सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततया सिद्धानामलंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावो. दयो यथा 'एकस्मिन्छयने विपक्षरमणीनाममहे मुग्धया सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णी स्थितस्तत्क्षणान्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनीक्षितः॥" अत्रौत्सुक्यस्योदयः। भावसंधिर्यथा'वामेन नारीनयनाश्रुधारां कृपाणधारामथ दक्षिणेन । उत्पँसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ।'
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy