SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । क्रमव्यङ्गयतया विविधः । लक्षणामूलः शब्दशक्तिमूलो 'वस्तुध्वनिः । असंलक्ष्यक्रमव्यङ्गयोऽर्थशक्तिमूला २ रसादि ध्वनिः । संलक्ष्य. "विवक्षिताभिधेयोऽपि द्विविधः प्रथमं मतः। असंलक्ष्यक्रमो यत्र व्यङ्गयो लक्ष्यक्रमस्तथा ॥" सम्यङ् न लक्षयितं शक्यः क्रमो यस्यासावसंलक्ष्यक्रमः, सचासौ व्यङ्गयो यस्मिन् सः। (१) वस्तुध्वनिरिति । रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा 'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे. वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वखरूपं वस्तु ध्वनति । अत्यन्ततिरस्कृतवाच्योऽपि यथादिकवेर्वाल्मीके:- . 'रविसक्रान्तसौभाग्यस्तुषारावृतमण्डलः। निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' अत्रान्धशब्दः स्वार्थं निमित्तीकृत्यादर्शनसाधारणपिच्छायत्वादिधर्मजातं वस्तुरूपं व्यनक्ति। (२) आदिशब्दाद्भावतदाभासादयः । यथाह ध्वनिकारः _ "रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ॥ तत्र रसध्वनिर्यथा'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्पैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे - करस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ प्रत्र विभावानुभावव्यभिचारिभिर्व्यक्त एव रसः। भाषध्वनिर्यथा'नाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy