SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । - . अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणादाहरणम् 'दिद्वक्षवः पदमलताविलासमक्ष्णां सहस्रस्य मनोहरं ते । वापीषु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदाघाः॥" 'क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।' अत्र विकखरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पदमलताया अधिकगुणत्वम् । 'चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवैलक्षण्येन तस्यापुनरागमात् । उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहाथ संबन्धे सहोक्तिः । भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः। उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तुल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चात्र गुणप्रधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः। सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा। साहित्यं चात्र कर्तादिनानाभेदं ज्ञेयम् । तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा'भवदपराधैः साधं सन्तापो वर्धतेतरामस्याः।' अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः। श्लेषभित्तिकाध्यवसायरूपा यथा--'अस्तं भाखान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ।' अत्रास्तं गमनं श्लिष्टम् । अस्तमित्य. स्योभयार्थत्वात्। (१) अत्र यौवनस्य अस्थिरतायां चन्द्रापेक्षयाऽस्य न्यूनगुणत्वम् । शशियौवनयाहि समानत्वेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति यौवनस्य तु न तथेति न्यूनतेत्यर्थः ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy