________________
- अलङ्कारसर्वस्वम् ।
प्रयुज्यमाना विशेषाक्तिः । सा च द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च। अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचि. न्स्यत्वेन वैविध्यात् । क्रमेण यथा_ 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥' 'आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥'
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तर्नु यस्य शंभुना न हृतं बलम् ॥ अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु. त्पत्तिः शक्तिमत्त्वस्वरूपेणविरुद्धेन धर्मेणेपनिबद्धा । अवार्यवीयंत्वं चात्रोक्तनिमित्तम् । तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्स्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सश्चिन्त्य. निमित्तम् । तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचिन्त्यमेव । प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र क्वचित्कार्यविरोधोत्पत्त्या निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते तथा च सति,
'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा__ स्ते चान्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥" इत्यत्र विभावनाविशोषोक्त्योः संदेहसंकरः । तथाहि उत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कएठाख्यं निबद्धमिति विशेषोक्तिः। विरुद्धमुखेनोपनिबन्धात्केवलमस्पटत्वम् । साधकबाधकप्रमाणाभावाचात्र संदेहसंकरः ।
या तु "एकगुणहानिकल्पनायां साम्यदाढयं विशेषोक्तिः” इति विशेषोक्तिलक्षिता सास्मदर्शने रूपकभेद एवेति पृथङ् न वाच्या।
अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्ताबेनेहोच्यते