________________
शारदा-अन्ध-माला।
कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चाति. शयोक्तिः।
इह नियतपूर्वकालभावि कारणं नियतपश्चात्कालभावि कार्यमिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाय तयोरेतद्पापगमः क्रियते, तदातिशयोक्तिः । एतद्रूपापगमश्च कालसाम्यनिबन्धनः, कालविपर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति । क्रमेण यथा
'पश्यत्सूद्गतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं ___ भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । . कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे ?
हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥' 'पथि पथि शुकचञ्चूचारुरम्भाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा ..
पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥' पूर्वत्र प्राढोक्ति निर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तयोस्तुल्यत्वेनोपपन्नं पौर्वापयं व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः । कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते ।
तयोस्तु भिन्नदेशत्वेऽसंगतिः । . तयोरिति कार्यकारणयोः यद्देशमेव कारणं, तद्देशमेव कार्य दृष्टम् । नहि महानसस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते तदाचितसंगतिनिवृत्तेरसंगत्या ख्योऽलंकारः। स च विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते । यथा
'प्रायः पथ्यपराङमुखा विषयिणा भूपा भवन्त्यात्मना
निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः । ... धन्याः श्लाघ्यगुणास्त एव विपिने संतोषभाजः परं
बायोऽयं वरमेव सेवकजनो- धिक्सर्वथा मद्रियः॥