________________
•
श्रलङ्कारसर्वस्वम् ।
अत्र पथ्यपराङ्कखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरि
त्यसंगतिः । एवम् —
१७६
'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयेोधरभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यसमाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' इत्यत्र ज्ञेयम् । अत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यद्न्यश्च स्मरनिमित्तकमित्यनयेोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् । विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् ।
.
विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कंचिदर्थं साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भः, यावदनर्थप्राप्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूप संघटनयोर्विरूपयोध संघटनं तत्तृतीयं विषमम् । श्रननुरूपसंसर्गे हि विषमम् । क्रमेण
पथा
'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥
'तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनुस्तनुभृतः सहसा लभन्ते । वाराणसि त्वयि तु मुक्तकलेवराणां
लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥' 'अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता निभृतनिभृतं कन्दलयति ॥
श्रत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्तरोत्पत्तिरिति अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं संघटनं क्रमेण मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमभ्यूह्यम् । यथा