________________
६४
.. अलङ्कारसर्वस्वम् ।
अत्र वाता धन्या इत्यप्रस्तुतादादहमधन्य इति वैधम्येण प्रस्तुतोऽर्थः प्रतीयते । वाच्यस्य संभव उक्तान्येवोदाहरणानि । असंभवे यथा--
(१) 'कस्त्वं भोः ? कथयामि दैवहतकं मां विद्धि शाखोटकं __वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥". प्रत्राचेतनेन सह प्रश्नोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव । प्रस्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत् । उभयरूपत्वे यथा
'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥' अत्र वाच्येऽर्थे कण्टकानां गुणभङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्वसंभवीत्युभयरूपत्वम् । प्रस्तुतस्य तात्पर्येण प्रतीतेस्तध्यारोपात्तत्र संगतमेवैतदिति नासमीचीनं किञ्चित् । एतदेव च श्लेषगर्भायामस्यामुदाहरणम् । तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्रेदपञ्चकमुद्दिष्टं, तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति, तदार्थान्तरन्यासाविर्भावः। सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशं. सेति निर्णयः। उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह -
सामान्यविशेषभावकार्यकारणभावाभ्यां मिर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः।
निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा निर्दिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिः । अतो ना. नुमानरूपोऽसावर्थान्तरन्यासः । तत्र सामान्यं विशेषस्य, विशेषो पा . . (१) शाखाटकं भूतावासवृक्षविशेष प्रति कस्यचित् प्रश्नः ।
(२) अर्थान्तरस्य न्यसनमित्यर्थान्तरन्यासः ।