________________
अलकारसर्वस्वम् ।
'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नोलमलिनानि ।' अवोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमानत्वकल्पनेऽपि प्रतीपमेव । यथा- . 'अहमेव गुरुः सुदारुणानामिति हालाहल ? तात ? मा स्म गुप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥"
अत्र हालाहलत्वं प्रकृष्टदोषत्वादसंभाव्योपमानभावमप्युपमानत्वेन निबद्धम्।
वस्तुना वस्त्वन्तरनिगूहनं मीलितम् । . सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तदन्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा
'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गकैर्मृगदृशां स्वतो लीलया
यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र द्वक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दूक्ता. रल्यादि तिरोधीयते । आगन्तुकेन यथा- 'ये कन्दरासु निवसन्ति सदा हिमाद्रे
स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो वत भियां न बुधोऽप्यभिक्षः॥" . अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुको कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्यादेव च मीलितव्यपदेशः।
प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ।