SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला । - यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते। तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा. “यस्य किचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्त्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥' - अत्र राहोः सकाशाद्भगवान्कृष्ण बलवान्विपक्षः। तदीयः पुनर्वस्त्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः। तत्तिरस्काराद्भगवतः प्रकर्षावगतिः । उपमानस्थाक्षेप उपमेयताकल्पनं वा प्रतीपम् । उपमेयस्यैवोपमानभारोद्वहनसामर्थ्याद् यदुपमानस्य कैमर्थक्येमाक्षेप आलोचनं क्रियते तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्नरप्रतितिष्ठापयिषयानादरणार्थमुपमेयत्वं कल्प्यते तत्पूर्वोक्तगत्या द्वितीयं प्रती. पम् । क्रमेण यथा 'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाल्यानि' इत्यादि ! यथा वा'लावण्याकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव ? त्वय्यवनोभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलदमाभृतः॥' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् । (१) ए एहि दाव सुन्दरि करणं दाऊण सुणसु वणिजम् । तुज्ज्ञ मुहेण किसोअरि? चन्दो उअमिजइ जणेण ॥' अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं करिप. तम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपम्यमनादरकारणम् । यथा (१) “अयि एहि तावत् सुन्दरि ? कर्ण दत्त्वा गृणु वचनीयम् । ..... तब मुखेन कृशोदरि ? चन्द्र उपमीयते जनेन ॥"
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy