SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । ननु नृपाङ्गणगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः । नैतत् । “नृपाङ्गणगतः खलः" इति प्रत्युत प्रक्रमभङ्गाष्टमेव, न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् । . . अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्टमेवेत्युक्तम् । प्रकृते तु नृपाङ्गणगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रकान्तम् । विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यमेतत् । ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तोदाहरणवत्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽ. शोभनत्वमिति विवक्षा । तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोमेंदः । अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् ।। कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः । केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सोकयं यत्, स सम्य. गाधानात्समाधिः। समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम्. 'मानमस्या निराकतु पादयोम पतिष्यतः। उपकाराय दिष्टयेदमुदीर्णं घनगर्जितम् ॥' माननिराकरणे कार्य पादपतनं हेतुः। तत्सोकर्याथं तु घनगर्जितस्य कारणान्तरस्य प्रक्षेपः। सौकर्य चोपकारायेति प्रकाशितम् । एवं बाह्यन्यायानपिणेऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयिणाऽलंकारा उच्यन्ते । तत्रप्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम् यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षण प्रतीकारः कतुन शक्यते इति तत्सम्बन्धिना दुर्बलस्य तं बाधितं तिरस्कारः क्रियते, तत्प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । तत्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy