________________
शारदा-ग्रन्थ-माला ।
'
1
समुच्चय इत्येव । यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः । न चायं समाध्यलंकारेऽन्तर्भवति । यत्र होकस्य कार्य प्रति पूर्ण साधकत्वम् । श्रन्यस्तु सौकर्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते । यत्र तु खले कपोतिकया बहूनामवतरस्तत्रायं समुच्चयः । श्रतः सुमहान्भेदोऽनयोः । स एष समुच्चयः सद्योगे - सद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा
'कुलममलिनं भद्रा मूर्तिर्मतिः श्रतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा एते भावा श्रमीभिरयं जना
व्रजति नितरां दर्पं राजस्त एव तवाङ्कुशाः ॥' श्रत्रमालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः एकैकं च दर्पहेतुतायोग्यं तत्स्पर्धया निबद्धम् । यथा'दुर्वाराः स्मरमार्गणाः प्रियतमा दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥" अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूरत्वादिभिः समुच्चयः । नववयः प्रभृतीनां च यद्यपि स्वतः शोभनत्वम्, तथापि विरहविषयत्वेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा -
शशी दिवसधूसरो गलितयौवना कामिनी
समुच्चयः ।
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि में ॥"
अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सद्सतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीयमानः शोभनः अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः