SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। - अध्यवसाने अयं संभवति-स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषय. प्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्यैवातिशयोक्तिः । अस्याश्च पश्च प्रकाराः । भेदेऽभेदः। अभेदे भेदः। संबन्धेऽ. संबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च । तत्र भेदेऽभेदो यथा'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' . अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदः। अभेदे भेदो यथा'अण्णं लडहत्तणनं अण्णाविश्र कावि वत्तणच्छात्रा। सामा सामाएणपत्रावइण रेहञ्चिन ण होइ ॥' कर्तृ वस्तु तत्र वस्तुतो नास्ति तो लोकसीमातिवर्तनं वर्तते । यथा "लावण्यसिन्धुरपरैव” इत्यत्र कमलादिभिर्मुखादीनां निगरणं कृतं, परन्त्वत्र कमलादीनि वस्तूनि वस्तुतो न सन्ति अतस्तेषामुदरे मुखादिकं प्रतीयते । एवञ्चानयारीत्या वास्तवस्यावास्तवतया निश्चयरूपेण वर्णनं लोकसीमातोबहिर्वर्तते। ___ उत्प्रेक्षायाः सम्भावनारूपतयाऽर्थादेककोटिकसन्देहरूपतया निश्चयरूपत्वाभावात्तत्र लोकसीमातिवर्तनं नास्ति । (१) अत्र कमल-कुवलय कनकलतिकापदैर्मुखनेत्रकामिनीना कम. लत्वादिनाध्यवसानादतिशयोक्तिः । (२) अन्यत्सौकुमार्यमन्यैव कापि वर्तनच्छाया । - श्यामा सामान्यप्रजापते रेखैव न भवति ॥ लडहशब्दः सौकुमार्ये । अत्र सौकुमार्यादीनामभेदेऽपि.भेदत्यवर्णनरूपातिशयोक्तिः । .... .. .............
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy