SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। (१) 'हे हेलाजितबोधिसत्त्व ? वचसां किं विस्तरैस्तोयधे? . ... नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।.. तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः। इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि दिनागानां मदजलमषीभाजि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक ? श्यामलिनानुलिप्ता न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ अत्र धवलताहेतुयशोविषयानवक्तृप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायात्कतिपयपदार्थवजं समस्तवस्तुधवलता. कारित्वं नृपयशसः प्रतीयते । 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ__ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया- . मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेव न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् । गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते-. उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्त्यर्थ निषेधाभास आक्षेपः। ... इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते। तथाविधस्य विधानार्हस्य निषेधः कर्तुं न युज्यते । स कृतोऽपि बाधितस्वरूपत्वानिषेधायत इति निषेधाभासः संपन्नः। तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् । अन्यथा गजस्तानतुल्यं स्यात् । सचाभासमानो. - (१) हेलया जिता बोधिसत्वा बौद्धा येन तत्सम्बुद्धौ । हे तोयधे? परः तृष्यतां पान्थजनानामुपकारस्य घटनायां सम्पादने वैमुख्येन परामखत्वेन लब्धं यदयशस्तद्भारस्य प्रोद्वहने मरोदेशस्य कृपया साहाय्यकं करोषोते स्तुतिपूर्विका व्याजस्तुतिर्निन्दापर्यवसायिनी ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy