SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। - अनिष्टविध्याभ्यासश्च यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्नः, एवमनिष्टस्यानिष्टत्वादेव विधानं नोपपद्यते । तत् क्रियमाणं प्रस्खलद्रपत्वाद् विध्याभासे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽ निष्टविशेष पर्यवसायी निषेधागरणात्माक्षेपः । यथाः-- “गच्छ गच्छसि चेत् कान्त ? पन्थानः सन्तु ते शिवाः । ..ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥ अत्र कयाचित् कान्तप्रस्थानमनिष्टमप्यनिराकरणमुखेन विधीयते । न चास्य विधिर्युक्तः । अनिष्टत्वात् । सेोऽयं प्रस्खलदूपत्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य कान्तप्रस्थानस्यासंर्विज्ञातपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यजितम् । यथा वा 'नो किंचित्कथनीयमस्ति सुभग ? प्रौढाः परं त्वादृशाः ___ पन्थानः कुशला भवन्तु भवतः को मादशामाग्रहः । किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् । स्मर्तव्या इत्यनेन च गमननिवृत्तिरेवोपोदलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः। आक्षेपे इष्टनिषेधेऽनिष्टविधी चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रवि ष्टम् । एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते। तत्रापि विरोधालंकारस्तावलक्ष्यते_ विरुद्धाभासत्वं विरोधः। इह जात्यादीनां चतुर्णा पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः। सति तु समाधाने प्रमुख एवाभासमामत्वाद्विरोधाभासः। तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy