________________
शारदा-ग्रन्थ-माला ।
क्षादनीयमतिगहनगहनमिति नेह प्रतन्यते ।
अस्ति तावद्व्यङ्गयनिष्ठो व्यञ्जनव्यापारः । " तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यैौ द्वौ काव्यभेदौ ।
( १ ) व्यङ्गयनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः । ( २ ) व्यङ्गयं द्विविधं प्रधानमप्रधानञ्च वाच्यार्थापेक्षया
व्यङ्ग्यार्थस्य चारुत्वात्कर्षे व्यङ्गयं प्रधानम् । इदमेव ध्वनिभूतमित्युच्यते । यत्र च वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य चारुत्वात्कर्षाभाव श्रर्थाद्वाच्येन समत्वं न्यूनत्वं वा तदप्रधानम् । इदमेव गुणीभूतव्यङ्गय-. मित्युच्यते । उक्तञ्च सहृदयधुरन्धरेण ध्वनिकृताः
"चारुत्वात्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा ।" श्रीमदप्पदीक्षिताश्ध :
यत्र वाच्यातिशायि व्यङ्गयं स ध्वनिः ।
यत्र व्यङ्गयं वाच्यानतिशायि तद्गुणीभूतव्यङ्ग्यम् । यदव्यङ्ग्यमपि चारु तच्चित्रमिति काव्यस्य भेदत्रयम्प्रदर्शि
तवन्तः ।
अत्रैव श्रीकृष्णः
"वाच्यातिशायि व्यङ्ग्यं यत्काव्यं ध्वनिरितीर्यते : काव्यं तु कथिते व्यङ्गये वाच्यादनतिशायिनि ॥ गुणीभूतव्यङ्ग्यमिति स्याद्व्यङ्गस्याप्रधानतः । श्रव्यङ्गयमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥" ध्वनिकारोऽपि
“प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत्तच्चित्रमभिधीयते ॥”
इत्यस्य त्रैविध्यमेव प्रकटयामास ।
श्रीविश्वनाथस्तु :
"काव्यं ध्वनिगुणीभूतव्यङ्गयं चेति द्विधा मतम्" इत्यस्य भेदयमेादाजहार ।