Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 30
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । - ऐन्द्रधाम हृदि स्मृत्वा नत्वा गुरुपदाम्बुजम् । नयोपदेशः सुधियां विनोदाय विधीयते ॥ १॥ नया०- ऐन्द्रमिति-"इदि परमैश्वर्ये" इति धात्वनुसाराद् इन्द्रः- आत्मा, तस्य संबन्धि ऐन्द्रम् , धाम- अखण्डज्ञानानन्दलक्षणम् , अत्र इन्द्र-धामपदाभ्यामात्म-तद्गुणयोः साध्यवसानया इन्द्र-तेजोऽभेदलाभादवश्योपासनीयत्व-मायातमोनिराकर्तृत्वप्रतीतिः । नन्विदमात्मनोऽनुध्यानम् , तच्च न मङ्गलम् , देवतानमस्कारादेरेव मङ्गलत्वेन प्रसिद्धेरिति चेत् ? न- नैश्चयिकस्याऽस्याऽऽत्मानुध्यानस्याऽऽत्मनि परमात्मसमापत्तिफलाऽऽवहतायाः योगशास्त्रप्रसिद्धत्वात् तदनुध्याने परमात्माऽनुध्यानस्यावश्यकत्वात् , यथावदात्मानुध्याने परमात्मध्यानस्य कारणत्वाच, तदुक्तं समानतान्त्रिकै:--- मतमवलम्ब्योक्तम्- 'विघ्नविघाताय' इति । 'समुचितेति- सम्यग्योग्येत्यर्थः, 'ऐन्द्रधाम हृदि स्मृत्वा' इति मङ्गलपद्यप्रथमचरणेन समुचितेष्टदेवप्रणिधानलक्षणं मङ्गलमावेदितम् , 'नत्वा गुरुपदाम्बुजम्' इत्यनेन समुचितेष्टगुरुनमस्कारलक्षणं मङ्गलमा. वेदितम् । आचरन् कुर्वन् । शिष्येति- 'नयोपदेशः सुधियां विनोदाय वितन्यते' इत्यनेन शिष्याचधानाय प्रतिज्ञा कृता, प्रतिज्ञा च वर्तमानकालावधिकोत्तरकालीनकर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः, शिष्यावधानं च श्रवणार्थ शिष्यस्य चित्तैकाग्री.. करणम् , गुरुरन्तरकाले नयोपदेशं करिष्यतीति ज्ञात्वा शिष्यो नयोपदेशशुश्रूषुरेकाग्रचित्तो भवतीति । मङ्गलपचं व्याख्यातुं तत्प्रतीकं गृह्णाति- ऐन्द्रमितीति । इन्द्रः इन्द्रपदबोध्यः । तस्य आत्मनः । यत्र भिन्नशब्दाभिधेये उपमेये उपमानाभेदाधिगतिः सा सारोपलक्षणा, यथा- 'अयं गौः' इत्यादाविदमाऽधिगते भारवाहकादौ 'गौः' इत्युपमानवाचकपदेन गवाभेदाधिगतिर्भवति, यत्र तु शब्दान्तरानभिहित एकोपमेये उपमानवाचकशब्देनोपमानाभेदाध्यवसितिः सा साध्यवसाना, यथा- 'गौः' इत्यतेतावन्मात्रेण गवाऽभिन्नतया भारवाहीकाधिगतिः, यथा वा " वापी काऽपि स्फुरति गगने तत्परं सूक्ष्मपद्या, सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सविधानात् सुधांशोः" ॥ १ ॥ j इत्यादौ वाप्यादिशब्देनोपमानवाचकेन वाप्याद्यमिन्नतया नाभ्याद्यपमेयार्थाध्यवसितिः, प्रकृते च स्वर्गाधिपतिसहस्राक्षवाचकेन्द्रशब्देनेन्द्राभिन्नतयाऽऽत्मनः, तेजोवाचकधामन्शब्देन तेजोऽभिन्नतयाऽऽत्मगुणस्याखण्ड. ज्ञानानन्दस्याधिगतिः, सेयं लक्षणा साध्यवसाना, तया प्रतीतादात्मन इन्द्राभेदादुपासनीयत्वमात्मनः प्रतीयते, एवं तया प्रतीतादात्मगुणस्याखण्डज्ञानानन्दस्य तेजोऽभेदान्मायातमोनिराकर्तृत्व प्रतीयत इति भवति प्रयोजनवतीय लक्षणोपादेया परीक्षकाणामिति 'आत्मज्ञानं हृदि स्मृत्वा' इत्यनमिधाय 'ऐन्द्रधाम हृदि स्मृत्वा' इत्युक्तियुज्यतेतरामित्याशयेनाह-- अत्रेति । परमात्मनो देवत्वात् तदनुध्यानस्य मङ्गलत्वेऽप्यात्मनो देवत्वाभावेन न तदनुध्यानं मलमिति शङ्कते- नन्विति । इदम् 'ऐन्द्रधाम हृदि स्मृत्वा' इतिवाक्यप्रतिपाद्यम् । समाधत्ते- नेति । नैश्चयिकनयेनायमात्माऽखण्डज्ञानानन्दलक्षण इत्यखण्डज्ञानानन्दगुणवत्त्वेनाऽऽत्मनोऽनुध्यानं नैश्चयिकम् , तच्च निरन्तरमभ्यस्यमानं परमात्मना सहाऽऽत्मन एकरूपतामेव सम्पादयति, परमात्मा हि अखण्ड ज्ञानानन्दलक्षण एव, आत्माऽपि निरन्तरं तथैव ध्यानेन गोचरीक्रियमाणो ध्यानरूपतपोबलेन कर्माणि निर्जरयन् परमात्मस्वरूप एव सम्पद्यत इति नैश्चयिकस्याखण्डज्ञानानन्दरूपत्वेनाऽऽत्मानुध्यानस्य परमात्मसमापत्तिफलकस्य योगशास्त्रप्रसिद्धस्य समभ्यसने परमात्मानुध्यानस्यावश्यम्भावित्वेन तत्पर्यवसायिनोऽस्याऽऽत्मानुध्यानस्य भवति मङ्गलत्वमित्याह-नैश्चयिकस्येति । तदनुध्याने परमात्मसमापत्तिफलकात्मानुध्याने । किश्छ, अखण्डज्ञानानन्दस्वरूपता परमात्मन एव प्रतीतेति यावदखण्डज्ञानानन्दस्वरूपपरमात्मानुध्यान न भवति न तावदखण्डज्ञानानन्दगुणवत्तयाऽऽत्माऽनुध्यानसम्भव इति तथाभूताऽऽत्माऽनुध्याने तत्कारणीभूतपरमात्मानुध्यानं समस्त्येवेति तद्रपं मङ्गलं युकमित्याह- यथावदात्मानुध्यान इति ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210