Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 61
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३५ जन्यतावच्छेदकम् , कारण-कार्यैकार्थप्रत्यासत्तिभेदात्, इति तस्यैव द्वित्वादिपरा पर्यन्तसंख्यावृत्तिजातिविशेषितस्य तथात्वम् । व्यङ्गयत्वनये चैकत्वान्यसंख्याप्रत्यक्षत्वम् , उक्तजातिविशेषप्रत्यक्षत्वं वाऽपेक्षाबुद्धेर्जन्यतावच्छेदकं वाच्यम् , द्वयोरप्यनयोर्मतयोः ‘एको धान्यराशिः' इत्यादिप्रत्ययसिद्धे सामूहिकैकत्वे व्यभिचारः । न च तत्रैकत्वं गौणमेव, वस्तुतस्त्वपेक्षाबुद्ध्या राशि-सेना-वनादौ बहुत्वविशेष एवोत्पाद्यते व्यज्यते वेति वाच्यम् , स्वारसिकैकत्वानुभावविरोधात् , ' एते बहवः कणाः, एते बहवः करि-तुरग-रथ-पदातयः, एते बहवः आम्र-निम्ब-धव-खदिराः' इत्यादौ राशित्व-सेनास्य-वनत्वाद्यनापत्तेश्च, अपेक्षाबुद्ध्या तत्र राशित्वादिरूपस्यैव बहुत्वस्योत्पत्तिरभिव्यक्तिर्वेति त्वयोपगमात् । न च बहुपदशक्यतावच्छेदकं बहुवचनप्रवृत्ति निमित्तं वा बहुत्वत्वमेकत्वद्वित्वान्यसंख्यात्वम्, त्रित्वमारभ्य पराद्धपर्यन्ते वृत्तिर्जातिविशेषो वा, राशित्वादिरूपबहुत्वे चापेक्षाबुद्धिविशेषजन्यतावच्छेदकस्तव्याप्य. एव जाति विशेषो बहुत्वत्वम् , तदवच्छिन्नोपस्थितिश्चैकवचनान्तराश्यादिपदादेवेति शाब्दबोधस्थले नानु. पपत्तिः, प्रत्यक्षे च बहवः' इत्यादौ कचित् दोषवशात् तदग्रहान्नानुपपत्तिरिति वाच्यम् , अनुभूयमानतस्यैवेति । 'जातिविशेषितस्य' इति स्थाने 'जातिविशेषस्य' इति पाठो युक्तः। तथात्वम् एकत्वजन्यतावच्छेदकत्वम् । व्यङ्ग्यत्वनये च द्वित्वादिकमपेक्षाबुद्धिव्यङ्ग-यमिति प्रभाकरमते तु । 'एकत्वान्यसङ्ख्याप्रत्यक्षत्वम्' इत्यत्र 'एकत्वान्य' इति विशेषणोपादानादेकरवप्रत्यक्षस्यापेक्षाबुद्धयजन्यत्वेऽपि न क्षतिः। उक्तजातिविशेषप्रत्यक्षत्वमितिद्वित्वमारभ्य पराई पर्यन्तं यैका जातिस्तद्विशिष्टप्रत्यक्षत्वमित्यर्थः । धान्यसमूहगतकत्वं यद् उत्पद्यते तत्रोक्तसङ्ख यावृत्तिजातिविशेषो न वर्तते, नवा तत्प्रयक्षं तादृशजातिविशिष्ट प्रत्यक्षं भवति, अथापि तदेकत्वमेकत्वेन जन्यते, अपेक्षाबुद्धया तु नैकरवं नवा तत्प्रत्यक्षमिति तत्रोक्तकार्यकारणभावो नास्ति, नवा तदुपपादको मतद्वयेऽपि कश्चित् कार्यकारणभावोऽस्ति, यच्च समवायेनैकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनैकत्वं कारणम् , तथा कारणस्यकत्वस्याभावेऽपि तदेकत्वं तदेकत्वप्रत्यक्ष चोपजायत इति व्यभिचारो मतद्वयेऽपि दुरुद्धर इत्यतो व्यङ्गयत्व-जन्यत्वपक्षौ न समीचीनावित्याह-द्वयोरपीति । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः। तत्र धान्यसमूहे, उत्पाद्यत इति न्यायमते, व्यज्यत इति प्रभाकरमते 'एको धान्यराशिः' इत्येवमेकत्वमेव स्वरसतोऽनुभूयते, न च स्वरसतोऽनुभूयमानस्य गौणत्वं युक्तम् , नवा तत्राप्रतीयमानस्य बहुत्वविशेषस्य कल्पनं युक्तमिति निषेधे हेतुमुपदर्शयति- स्वारसिकैकत्येति । अपि च 'एते बहवः कणा राशिः' इति, 'एते बहवः करि-तुरग-रथ-पदातयः सेना' इति, 'एते बहव आम्र-निम्ब-धव-खदिरादयो वनम्' इति च प्रत उक्तमतद्वये तु राशित्वं सेनात्वं वनत्वं च बहुत्वविशेषरूपमपेक्षाबुद्ध्योत्पद्यतेऽभिव्यज्यते वेत्युपेयते, तथा च बहवः' इत्यनेनैव बहुत्वस्यावभासमानत्वादाशित्वादिकं तदनधिकं तत एवं लब्धमिति तथाप्रतीतिन स्यादित्याह-एत इति । त्वया नैयायिकेन प्रभाकरेण वा । ननु बहुपदशक्यतावच्छेदके यद् बहुत्वत्वं तद्वयाप्यजातिविशेष एव राशित्वादि. रूपबहत्वे इति सामान्यरूपेण बहुत्वत्वेन विशिष्टस्याश्रये तद्वयाप्यवहत्वत्वविशेषविशिष्टस्यावच्छिन्नान्वयसम्भवाद् एते बहवः कथा राशिः, एते बहवः करि-तुरग-रथ-पदातयः सेना, एते बहव आम्र-निम्ब-धव-खदिरा वनम्' इत्यादौ शाब्दबोधस्य नानुपपत्तिः, उक्तबहुत्वद्वयस्य सत्वेऽपि प्रत्यक्षे यदेकमेव बहुत्वत्वमनुभूयते तत्र सौसादृश्यलक्षणदोषविशेष एव बहत्वत्वान्तरमहप्रतिबन्धक इति तदप्रतिभासनमप्युपपद्यत इत्याशङ्कय प्रतिक्षिपति- न चेति- अस्य 'बाच्यम्' इत्यनेनान्वयः । 'राशित्वादि' इत्यादिपदात् सेनात्व-वनस्वादेरुपग्रहः । तद्वयाप्य एव त्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषव्याप्य एव । तदवच्छिन्नोपस्थितिश्च त्रित्वादिपरा पर्यन्तसङ्घयावृत्तिजातिविशेषव्याप्यजातिविशेषावच्छिन्नोपस्थितिच, तथा च यत्र 'एते बहवः कणाः' इत्याद्येव प्रयुज्यते न तु राश्यादिपदमपि तत्र प्रयुज्यते तत्रोक्तजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्य प्रतीतिर्न भवति, यत्र तु 'एते बह्वः कणा राशिः' इत्यादि प्रयुज्यते तत्रोक्तजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्यापि शाब्दबोधो भवति । शब्दाऽनियन्त्रितविषये प्रत्यक्षे च कथमुकजातिद्वयावच्छिन्नस्य क्वचिदनवभासनमित्यपेक्षायामाह-प्रत्यक्षे चेति । तदग्रहात् उक्तजातिविशेषव्याप्यजातिविशेषाऽमहात् । निषेधे हेतुमाह- अनुभय

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210