Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 75
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः । बोधकत्वमिति दिक, ४ । विध्यात्मना मुख्यविषयतावच्छिन्ना या उभयात्मना युगपदवक्तव्यत्वमुख्यविषयता तद्वान् बोधः पञ्चमस्य भङ्गस्य फलम् , ५ । निषेधात्मना मुख्यविषयतावच्छिन्ना या उभयास्मना युगपदवक्तव्यत्वविषयता तद्वान् षष्ठस्य, ६ । क्रमादुभयमुख्यविषयताद्वयावच्छिन्नाऽवक्तव्यत्वमुख्यविषयताकः सप्तमस्य, ७ अत्र सप्तभङ्गाथामित्थं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तविअप्पो वयणपहो होइ अत्थपजाए । वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो अ" ॥ -[सम्मतिप्रथमकाण्डे गाथा-४१ ] एवम्- अनन्तरोक्तप्रकारेण, सप्तविकल्प:-- सप्तभेदः, वचनपथो भवति, अर्थपर्याये- अर्थनये सहव्यवहारर्जुसूत्रलक्षणे, तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यपाहिणि. द्वितीयस्तु 'नास्ति' इत्ययं व्यवहारे विशेषमाहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रह-व्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्जुसूत्रेष्विति । प्रयोगश्चैतैश्चतुर्थ-तृतीययोर्व्यत्ययेनेष्यत इति न तृतीये दर्शयति-विध्यात्मनेति-स्पष्टम् । षष्ठभङ्गस्य फलमुपदर्शयति-निषेधात्मनेति-व्यक्तमदः । सप्तमभङ्गस्य फलमुपदर्शयतिक्रमादिति । उभयेति- अस्तित्व-नास्तित्वोभयेत्यर्थः । सप्तभङ्गीवाक्यं कुत्र नये सम्पूर्ण प्रवर्तते, कुत्र नयेऽन्यथेत्यत्र सिद्धसेनदिवाकरपादैरुपदर्शितो नयविभाग एवं कान्त इत्याकलयन् ग्रन्थकार आह अत्रेति । इत्थम् ‘एवं सत्तविअप्पो' इतिगाथयाऽनन्तरमभिधीयमानप्रकारेण । एवं सत्त० इति- "एवं सप्तविकल्पो बचनपथो भवत्यर्थपर्याये व्यञ्जनपर्याये पुनः सक्किल्पो निर्विकल्पश्च" ॥ १॥ इति संस्कृतम्। विवृणोति- एवमिति । नैगमस्य सङ्ग्रह-व्यवहारयोरेवान्तर्भावः श्रीसिद्धसेनदिवाकरपादानां मते ततोऽर्थनयास्त्रय एव सङ्ग्रह -व्यवहारर्जुसूत्राः, तत्र को भङ्गः कस्मिन्नर्थनये? इत्यपेक्षायामाह-तत्रेति- समह-व्यवहारर्जुसूत्रलक्षणेष्वित्यर्थः । 'स्यादस्त्येव' इत्येवस्वरूपः प्रथमो भङ्गः सामान्यप्राहिणि सङ्ग्रहनये भवतीत्याह-प्रथम इति । 'स्याम्नास्त्येव' इत्येवस्वरूपो द्वितीयो भङ्गो विशेषग्राहिणि व्यवहारे प्रवर्तत इत्याह-द्वितीयस्विति । 'स्यादवक्तव्य एव' इति तृतीयो भङ्ग ऋजुसूत्रनये प्रवर्तत इत्याह-ऋजुसूत्रे तृतीय इति । यथा च तृतीयभङ्गस्य ऋजुसूत्रनय एव प्रवृत्तिर्न सङ्ग्रह-व्यवहारयोस्तथाऽत्रैव ग्रन्धकारो दर्शयिष्यतीति । 'स्यादस्त्येव स्थानास्त्येव च' इति चतुर्थभः सङ्ग्रह व्यवहारयोः प्रवर्तत इत्याह-चतुर्थ ह-व्यवहारयोरिति । 'स्यादस्ति स्यादवक्तव्यश्च' इति पञ्चमो भाः सनर्जुसूत्राभ्यामुपजायत इत्याह--पञ्चमः सहर्जुसूत्रयोरिति । 'स्यान्नास्ति स्यादवक्तव्यश्च' इति षष्टो मङ्गो व्यवहारर्जुसूत्राभ्यामात्मलाभमासादयतीत्याह- षष्ठो व्यवहारर्जुसूत्रयोरिति । 'स्यादस्ति स्यान्नास्ति स्यादवक्तव्यश्च' इति सप्तमो भगः सङ्ग्रहध्यवहारर्जुसूत्ररुपजायत इत्याह- सप्तमः सङ्ग्रह व्यवहारर्जुसूत्रेष्विति । इतिशब्दः सप्तभनथामथनययोजनोपवर्णनसमात्यर्थः । ननु 'स्यादस्त्येव स्यान्नास्त्येव' इति तृतीयो भङ्गः प्रथमं भवता दर्शितः, सच सम्प्रह-व्यवहाराभ्यामुपजायत इति, इदानी तत्स्थाने 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्रनयप्रवर्तितो दर्शित इति तत् कथं सङ्गतिमङ्गतीत्यत आह-प्रयोगश्चैतैरिति- श्रीसिद्धसेनदिवाकर पादैः ‘स्यादवक्तव्यः' इतिचतुर्थभङ्ग-'स्यादस्ति स्यान्नास्ति' इतितृतीयभङ्गयोयत्ययेन तृतीयस्थाने 'स्थादवक्तव्यम्' इति, चतुर्थस्थाने 'स्यादस्ति स्याम्नास्ति' इत्येवे प्रकारेण व्यत्यासेन प्रयोग इष्यत इत्यर्थः । ये च श्रीमद्देवसूरिप्रभृतयः सप्तभङ्गी सम्पूर्णैव सकलादेश स्वभावा विकलादेशस्वभावा चेत्येवमामनन्ति तेषां . मते सङ्ग्रह-व्यवहारयोः प्रथम-द्वितीयभङ्गमूलयोः संयोगस्यैव प्रथममुपस्थिततया ततो जायमानस्य 'स्यादस्ति स्थान्नास्ति' इति भङ्गस्यैवोपस्थितिरिति तस्य तृतीयस्थानेऽभिषेकः, ततो विधि-निषेधयोयुगपत्प्राधान्यविवक्षयाऽऽविर्भवनस्वभावस्य 'स्यादवक्तव्यः' इत्यस्य चतुर्थस्थानेऽभिषेक इति । श्रीसिद्धसेन दिवाकरपादानां मते अखण्डार्थत्वात् सप्तभङ्गयां त्रयः सकलादेशाः, सखण्डार्थत्वाच्चत्वारो विकलादेशा अभिमता इत्यखण्डानां 'स्यादत्येव' इति 'स्यान्नास्त्येव' इति 'स्यादवक्तव्य एव' इति भङ्गानां क्रमेण सन्निवेशः, ततो विकलादेशानां चतुर्णा भजानामिति, तथा च तृतीयस्थानेऽभिषिक्त 'स्यादवक्तव्य एव' इति भने ऋजुसूत्रनययोजना सम्भवत्येवेत्याह-इति न

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210